॥विश्वस्मै नमः॥
१विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥
२पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥
३योगो योगविदां नेता प्रधानपुरुषेश्वरः ।नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥
४सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥
५स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।अनादिनिधनो धाता विधाता धातुरुत्तमः ॥
६अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥
७अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥
८ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥
९ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥
१०सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥
११अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥
१२वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः ।अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥
१३रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः ॥
१४सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥
१५लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥
१६भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥
१७उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥
१८वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।अतीन्द्रियो महामायो महोत्साहो महाबलः ॥
१९महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥
२०महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥
२१मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥
२२अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ।अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥
२३गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥
२४अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥
२५आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।अहः संवर्तको वह्निरनिलो धरणीधरः ॥
२६सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥
२७असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥
२८वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥
२९सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥
३०ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥
३१अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥
३२भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥
३३युगादिकृद्युगावर्तो नैकमायो महाशनः ।अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥
३४इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥
३५अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥
३६स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥
३७अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥
३८पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥
३९अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥
४०विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।महीधरो महाभागो वेगवानमिताशनः ॥
४१उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।करणं कारणं कर्ता विकर्ता गहनो गुहः ॥
४२व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥
४३रामो विरामो विरतो मार्गो नेयो नयोऽनयः ।वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥
४४वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥
४५ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥
४६विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययम् ।अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥
४७अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥
४८यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥
४९सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥
५०स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥
५१धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥
५२गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥
५३उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥
५४सोमपोऽमृतपः सोमः पुरुजित् पुरुसत्तमः ।विनयो जयः सत्यसन्धो दाशार्हः सात्त्वतां पतिः ॥
५५जीवो विनयितासाक्षी मुकुन्दोऽमितविक्रमः ।अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥
५६अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥
५७महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥
५८महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥
५९वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ।वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥
६०भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥
६१सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥
६२त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥
६३शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥
६४अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ।श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ॥
६५श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥
६६स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥
६७उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः ।भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥
६८अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥
६९कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥
७०कामदेवः कामपालः कामी कान्तः कृतागमः ।अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥
७१ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥
७२महाक्रमो महाकर्मा महातेजा महोरगः ।महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥
७३स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥
७४मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥
७५सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥
७६भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥
७७विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥
७८एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् ।लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥
७९सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥
८०अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥
८१तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥
८२चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥
८३समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥
८४शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥
८५उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥
८६सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।महाह्रदो महागर्तो महाभूतो महानिधिः ॥
८७कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥
८८सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥
८९सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।अमूर्तिरनघोऽचिन्त्यो भयकृद् भयनाशनः ॥
९०अणुर्बृहत् कृशः स्थूलो गुणभृन्निर्गुणो महान् ।अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥
९१भारभृत् कथितो योगी योगीशः सर्वकामदः ।आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥
९२धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥
९३सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥
९४विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।रविर्विरोचनः सूर्यः सविता रविलोचनः ॥
९५अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥
९६सनात् सनातनतमः कपिलः कपिरव्ययः ।स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः ॥
९७अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥
९८अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥
९९उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥
१००अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥
१०१अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥
१०२आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥
१०३प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ।तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥
१०४भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥
१०५यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः ।यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥
१०६आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥
१०७शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥
सर्वप्रहरणायुध ॐ नम इति।
१०८वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥
श्रीवासुदेवोऽभिरक्षतु ॐ नम इति।